सूत्रम्
अवे ग्रहो वर्षप्रतिबन्धे॥ ३।३।५१
काशिका-वृत्तिः
अवे ग्रहो वर्षप्रतिबन्धे ३।३।५१
विभाषा इति वर्तते। अवे उपपदे ग्रहेः धातोः घञ् प्रत्ययो भवति विभाषा वर्षप्रतिबन्धे ऽभिधेये। प्रप्तकालस्य वर्षस्य कुतश्चिन् निमित्तादभावो वर्षप्रतिबन्धः। अवग्राहो देवस्य, अवग्रहो देवस्य। वर्षप्रतिबन्धे इति किम्? अवग्रहः पदस्य।
न्यासः
अवे ग्रहो वर्षप्रतिबन्धे। , ३।३।५१
"ग्रहवृदृ"
३।३।५८ इत्यादिनापि प्राप्ते तदपवादः, पक्षे घञभिधीयते। "कुतश्चिन्निमित्तात्" इति। सत्त्वकर्मापराधाधिकारात्॥